मातङ्गी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मातङ्गी, स्त्री, (मतङ्गस्य मुनेरपत्यं स्त्री । मातङ्ग + अण् ङीष् ।) दशमहाविद्यान्तर्गतनवमविद्या । अथ मातङ्गीमन्त्रः । वामकेश्वरतन्त्रे । “अथ वक्ष्ये महादेवीं मातङ्गीं सर्व्वसिद्धिदाम् । अस्योपासनमात्रेण वाक्सिद्धिं लभते ध्रुवम् ॥ प्रणवञ्च ततो मायां कामबीजञ्च कूर्च्चकम् । मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः ॥ ऋषिः स्याद्दक्षिणामूर्त्तिर्विराट छब्दः प्रकी- र्त्तितम् । मातङ्गीदेवता देवी सर्व्वसिद्धिप्रदायिनी ॥ अङ्गन्यासकरन्यासौ कुर्य्यान्मन्त्री समाहितः । षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ॥ षट्कोणाष्टदलं पद्मं लिखेद्यन्त्रं मनोरमम् । तत्र पूजा प्रकर्त्तव्या जवापुष्पेण मन्त्रवित् ॥ अष्टशक्तीश्चाष्टदले पूजयेत् सुसमाहितः । रतिः प्रीतिर्मनोभवा क्रिया श्रद्धा च शक्तयः ॥ अनङ्गकुसुमानङ्गमदना मदनालसा । इत्यष्टशक्तीः संपूज्य उपहारसमन्वितः ॥ ततो देवीं परां ध्यायेत् साधकः स्थिरमानसः ॥ श्यामाङ्गीं शशिशेखरां त्रिनयनां रत्नसिंहा- सनस्थिताम् । वैदैर्वाहुदण्डैरसिखेटकपाशाङ्कुशघराम् ॥ एवं ध्यात्वा महादेवीं गन्धपूष्पैर्मनोरमैः । नैवेद्यन्तु महादेव्यै पायसं शर्करान्वितम् ॥ पुरश्चरणकाले तु षट्सहस्रं मनुं जपेत् । तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह ॥ ब्रह्मवृक्षोद्भवैः काष्ठैः साधकः शक्तिभिः सह । एवं पुरष्क्रियां कृत्वा प्रयोगविधिमाचरेत् ॥ चतुष्पथे श्मशाने वा कलामध्ये च मान्त्रिकः । मत्स्यं मांसं पायसञ्च दद्याद्धूपञ्च गुग्गुलुम् ॥ रात्रियोगेन कर्त्तव्यं सदा पूर्णश्च साधक्ः । एवं प्रयोगमात्रेण कविता जायते ध्रुवम् ॥ अग्निस्तम्भं जलस्तम्भं वाक्स्तम्भं कारयेत् ध्रुवम् । मन्त्री जयति शत्रूंश्च तार्क्ष्यो भोगिकुलं यथा ॥ शास्त्रे वादे कवित्वे च बृहस्पतिरिवापरः । अनेनैव विधानेन मातङ्गी सिद्धिदायिनी ॥ नूनं तद्गृहमागत्य कुवेरैर्दीयते वसु । विना मत्स्यैर्विना मांसैर्नार्च्चयेत् परदेवताम् ॥” इति तन्त्रसारः ॥
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Mātaṅgī : f.: A mythical female elephant.
One of the nine self-born (ātmasaṁbhavā) daughters of Krodhavaśā (or of Tāmrā (?) 1. 60. 54; in that case krodhavaśā ‘irascible’); she gave birth to elephants 1. 60. 58, 59, 64.
_______________________________
*2nd word in right half of page p45_mci (+offset) in original book.
Mahabharata Cultural Index