मातरिश्वा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मातरिश्वा, पुं, (मातरि अन्तरीक्षे श्वयति वर्द्धते इति । यद्बा, मातरि जनन्यां श्वयति वर्द्धते सप्तसप्तकत्वादिति । श्वि + “श्वन् उक्ष- न्निति ।” उणा० १ । १५८ । इति कनिन् । नाम्नि सप्तम्या अलुक् । धातोरिकारलोपश्च निपातितः ।) वायुः । इत्यमरः । २ । ४ । ६४ । (यथा, ऋग्वेदे । १ । ९३ । ६ । “आन्यं दिवो मातरिश्वाजभारामथ्नादन्यं परिश्येनो अद्रेः ॥” “मातरिश्वा वायुः ।” इति तद्भाष्ये सायनः ॥ मातर्य्यन्तरिक्षे श्वसिति चेष्टते इति । श्वस् + कनिन् । अग्निभेदः । यथा, ऋगवेदे । ३ । २९ । ११ । “तनूनपादुच्यते गर्भं आसुरो नराशंसो भवति यद्विजायते । मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ॥” “यदाग्निररणीषु गर्भरूपतया वर्त्तते तदा तनू- नपान्नामको भवति यदान्तरिक्षे विद्योतते तदा मातरिश्वनामको भवति ।” इति तद्भाष्ये सायनः ॥)
