मातापितरौ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मातापितरौ, पुं, (माता च पिता च । “आनङ् ॠतोद्बन्द्वे ।” ६ । ३ । २५ । इत्यानङादेशः ।) जननीजनकौ । तत्पर्य्यायः । पितरौ २ मातर- पितरौ ३ तातजनयित्र्यौ ४ । इत्यमरभरतौ । २ । ६ । ३७ ॥ नित्यद्बिवचनान्तोऽयम् ॥ (यथा, मनौ । ३ । १५७ ॥ “अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा ॥”)
