मातृमण्डलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मातृमण्डलम्, क्ली, (मातॄणां मण्डलम् ।) नेत्रयो- र्म्मध्यम् । तत्तु आसन्नमृत्युर्न्न पश्यति । यथा, काशीखण्डे ४२ अध्याये । “अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च । आसन्नमृत्युर्न्नो पश्येच्चतुर्थं मातृमण्डलम् ॥ अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥” (यथा च बृहत्संहिताथाम् । “मातॄणामपि मातृमण्डलविदो विप्रान् विदुर्ब्रह्मणः ॥”)
