मादृश
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मादृशः, त्रि, (अहमिव दृश्यत इति । दृश + “त्यदादिषु दृशोऽनालोचने कञ्च ।” ३ । २ । ६० । इति कञ् ।) मत्सदृशः । इति व्याकरणम् ॥ (यथा, महाभारते । ७ । १०८ । ८९ । “तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा । तादृशस्येदृशे काले मादृशैरभिचोदितः ॥ कथं नु भार्य्या पार्थानां तव कृष्ण ! सखी विभो ! । धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥”)
