माधवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माधवः, पुं, (यदुपुत्त्रस्य मुधोरपत्यं पुमान् । इति मधु + अण् । मा लक्ष्मीस्तस्याः धवः । माया विद्याया धव इति वा ।) विष्णुः । तस्य व्युत्पत्ति- र्यथा, -- “मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी । नारायणीति विख्याता विष्णुमाया सनातनी ॥ महालक्ष्मीस्वरूपा च वेदमाता सरस्वती । राधा वसुन्धरा गङ्गा तासां स्वामी च माधवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ (यथा, महाभारते । ५ । ७० । ४ । “मौनाद्ध्यानाच्च योगाच्च विद्धि भारत ! माधवम् ।”) तन्नाममाहात्म्यं यथा, -- ओमित्येकाक्षरे मन्त्रे स्थितः सर्व्वगतो हरिः । माधवायेति वै नाम धर्म्मकामार्थमोक्षदम् ॥” इति वह्रिपुराणम् ॥ (मधोर्वसन्तस्यायम् मधूनि मधुमन्ति कुसुमानि अस्मिन् वा । मधु + “मधोर्ञ च ।” ४ । ४ । १२९ । इति ञः ।) वैशाखमासः । इत्यमरः । १ । ४ । १६ ॥ (यथा, मार्कण्डेये । ११७ । २७ । “स तेन सख्या सहितो जगामाम्रवणं वनम् । पत्नीभिः स समं रन्तुं माधवे मासि पार्थिव ! ॥” (मधु + स्वार्थे अण् ।) वसन्तः । इति विश्वः ॥ (यथा, सुश्रुते । १ । १९ । ९ । “मधुमाधवौ वसन्तः ।” “माधवप्रथमे मासि नभस्यप्रथमे पुनः ॥” इति चरके सूत्रस्थाने सप्तमेऽध्याये ॥ “माधवनभस्यसहस्यानां यथासंख्यं वैशाख- भाद्रपौषाणां सुश्रुतेऽभिहितत्वात् तेषां प्रथमे- ऽग्रेऽग्रवर्त्तिनि मासि चैत्रादौ विषय इति निष्कर्षः । इति चरकटीकाकृदभिप्रायः ॥) मधुकवृक्षः । कृष्णमुद्गः । इति राजनिर्घण्टः ॥ (भौत्यमन्वन्तरीयसप्तर्षीणामन्यतम ऋषि- विशेषः । यथा, मार्कण्डेये । १०० । ३१ । “अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः । शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥” सायनाचार्य्यस्य भ्राता । यथा, सायनकृतधातु- वृत्तौ । इति पूर्ब्बदक्षिणपश्चिमसमुद्राधीश्वर- कम्पराजसुतसङ्गमराजमहामन्त्रिणा सायन- पुत्त्रेण माधवसहोदरेण सायनाचार्य्येण विर- चिता माधवीया धातुवृत्तिः ॥)
