सामग्री पर जाएँ

माधुर्य्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माधुर्य्यम्, क्ली, (मधुरस्थ भावः : मधुर + “वर्ण- दृढाभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।) मधुरस्य भावः । मधुरत्वम् । इति हेमचन्द्रः । ३ । १७३ । (यथा, सुश्रुते सूत्रस्थाने एका- दशाध्याधे । “माधुर्य्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति ॥”) लावण्यम् । यथा, -- “रूपं किमप्यनिर्व्वाच्यं तनोर्माधुर्य्यमुच्यते ।” इत्युज्ज्वलनीलमणिः ॥ पाञ्चालीरीतिविशिष्टकाव्यगुणः । यथा, -- “मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ।” इति साहित्यदर्पणे ९ परिच्छेदः ॥ तस्य लक्षणं यथा, साहित्यदर्पणे ८ परिच्छेदे । “चित्तद्रवीभावमयो ह्लादो माधुर्य्यमुच्यते । सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥ मूर्द्ध्नि वर्गान्त्यवर्णेन युक्ताष्ट ठ ड ढान् विना । रणौ लघु च तद्व्यक्तौ वर्णाः कारणतां गताः ॥ अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।” (नायिकानामयत्नजोऽलंकारविशेषः । यथा, साहित्यदर्पणे । ३ । १२९ । “सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम् ।” सात्त्विकनायकगुणभेदः । यथा, तत्रैव । ३ । ९१ । “सर्वावस्थाविशेषेषु माधुर्य्यं रमणीयता ।”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माधुर्य्य¦ न॰ मधुरस्य भावः ष्यञ्।

१ मधुरत्वे
“चित्तद्रवी-भावमयो ह्लादो माधुर्य्यमुच्यते” सा॰ द॰ उक्ते

२ काव्यगुणभेदे च। तद्व्यञ्जकवर्णाश्च तत्रोक्ता यथा
“मूर्द्ध्निवर्गान्त्यवर्णेन युक्ताः टठडढान् विना। रणौ लघु चतद्व्यक्तौ वर्णाः कारणतां गताः। अवृत्तिरल्पवृत्तिर्वामधुरा रचना मना”। तच्च सम्भोगशृङ्गादावनुगुणंयथोक्तं तत्रैव
“सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकंक्रमात्

३ लावण्ये हेम॰।
“रूपं किमप्यनिर्वाच्यं तनो-र्माधुर्य्यमुच्यते” उज्ज्वलमणौ तल्लक्षणमुक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माधुर्य्य¦ n. (-र्य्यं) Sweetness of flavour or disposition. E. मधुर sweet, literally or figuratively, aff. ष्यञ् |

"https://sa.wiktionary.org/w/index.php?title=माधुर्य्य&oldid=346411" इत्यस्माद् प्रतिप्राप्तम्