माध्यन्दिनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माध्यन्दिनम्, त्रि, (मध्ये भवम् । मध्य + “अन्तः- पूर्ब्बपदात् ठञ् ।” ४ । ३ । ६० । इत्यत्रकाशिका सूत्रवृत्तौ “मध्योमध्यं दिनण् चास्मात् ।” इति दिनण् ।) मध्यमम् । इति हेमचन्द्रः । ६ । ९६ ॥ (मध्यन्दिनसम्बन्धि । यथा, ऋग्वेदे । ३ । २८ । ४ । “माध्यन्दिने सवने जातवेदः पुरोडाशमिह कवे ! जुषस्व ।” “माध्यन्दिने मध्यन्दिनसम्बन्धिनि” तथा “माध्य- न्दिने मध्यं दिनस्येदमित्यर्थे उत्सादित्वादञ् ञित्वादादिवृद्धिः ञित्वादेवाद्युदात्तत्वम् ।” इति च तद्भाष्ये सायनः ॥ मध्यन्दिनेन प्रोक्ताधीता वा । इत्यण् ङीप् । शुक्लयजुर्वेदस्य शाखाभेदः । यथा, आश्वलायनीयश्रौतसूत्रे । ५ । ५ । १९ । “पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः ।”)
