माध्वीकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माध्वीकम्, क्ली, (माध्वी + स्वार्थे कन् ।) मधूक- पुष्पकृतमद्यम् । तत्पर्य्यायः । मध्वासवः २ माधवकः ३ मधु ४ । इत्यमरः । २ । १० । ४१ ॥ मधुमाध्वीकमित्येकं नामेति केचित् ॥ पूर्व्वौ द्बौ पुष्पमद्ये । (यथा, महाभारते । ३ । २७७ । ३९ । “कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाध- वीम् । लोभं सौवीरके कुर्य्यान्नारी काचिदिति स्मरे ॥”) परौ द्वौ द्राक्षाविकारे । इति भरतः ॥ माद्दींक- मिति वा पाठः । इति रमानाथः । माध्वीक- स्थाने माध्वकमिति भानुदीक्षितः ॥ (मधु । यथा, नैषधे । १९ । ३३ । “धयतु नलिने माध्वीकं वा न वाऽभिनवागतः । कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः । इह तु लिहते रात्रीतर्षं रथाङ्गविहङ्गमा मधु निजबधूवक्त्राम्भोजेऽधुनाऽधरनामकम् ॥” “माध्वीकं मकरन्दम् । इति तट्टीकायां नारा- यणः ॥) तत्पर्य्यायो यथा, -- “मधुमाक्षीकमाध्वीकक्षौद्रसारध्यमीरितम् । मक्षिकावरटीभृङ्गवातपुष्परसोद्भवम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माध्वीकम् [mādhvīkam], [मधुना मधूकपुष्पेण निर्वृत्तम् ईकक्]
A kind of spirituous liquor distilled from the flowers of the tree called Madhūka; गौडी पेष्टी च माध्वी च विज्ञेया त्रिविधा सुरा Ms.11.94; चचाम मधु माध्वीकम् Bk.14.94.
Wine distilled from grapes; साध्वी माध्वीक चिन्ता न भवति भवतः Gīt.12. (= मधो; Com.).
A grape. -Comp. -फलम् a kind of sweet cocoa-nut (Mar. मोहाचा नारळ).
