मानकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानकम्, क्ली, पुं, (मानं बृहत्परिमाणमस्य । “शेषाद्विभाषा ।” ५ । ४ । १५४ । इति कप् ।) माणकम् । माणकचु इति भाषा । “कच्वीतु पिच्छिला प्रोक्ता विस्तीर्णपर्णमानके ।” इति शब्दचन्द्रिका ॥ “स्थलकन्दो ग्राम्यकन्दः स्थलपद्मस्तु मानकः ।” इति रत्नमाला ॥ अस्य गुणाः । “मानकं स्वादु शीतञ्च गुरु शोथहरं कटु ।” इति राजवल्लभः ॥ अपि च । “मानकः स्यान्महापत्रः कथ्यते तद्गुणा अथ । मानकः शोथहृच्छीतः पित्तरक्तहरो लघुः ॥” इति भावप्रकाशः ॥ (विषयोऽस्य यथा, -- “पुराणं मानकं पिष्ट्वा द्विगुणीकृततण्डुलम् । साधितं क्षीरतोयाभ्यामभ्यसेत् पायसन्तु तत् ॥ हन्तुं वातोदरं शोथं ग्रहणीं पाण्डुतामपि । सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥” इति वैद्यकचक्रपाणिसंग्रह उदराधिकारे ॥)
