मानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानम्, क्ली, (मीयतेऽनेनेति । मा + करणे ल्युट् ।) परिमाणम् । तत्पर्य्यायः । यौतवम् २ द्रुव- यम् ३ पाय्यम् ४ पौतवम् ५ । तत्तु तुलाङ्गुलि- प्रस्थैस्त्रिविधं भवति । तत्र तुलाग्रहणेनोन्मा- नाद्युपलक्ष्यते । अङ्गुल्या हस्तादि । प्रस्थेन द्रोणादि । इत्यमरभरतौ । २ । ९ । ८५ ॥ प्रमाणम् । इति मेदिनी । ने, १५ ॥ यत्र तालो विरमति तत् । तदेव गृहसुच्यते । तच्चतुर्विधम् । समं विषमं अतीतं अनागतञ्च । इति सङ्गीत- शास्त्रम् ॥ * ॥ अथ मानपरिभाषा । “न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् । अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया ॥ चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः । विहाय सर्व्वमानानि मागधं मानमुच्यते ॥ त्रसरेणुर्व्वुधैः प्रोक्तस्त्रिंशता परमाणुभिः । त्रसरेणुस्तु पर्य्यायनाम्ना ध्वंसीति गद्यते ॥ जालान्तरगतैः सूर्य्यकरैर्ध्वंसी विलोक्यते । षड्ध्वंसीभिर्म्मरीचिः स्यात्ताभिः षड्भिश्च राजिका । तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः । यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥ षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम- धानकौ । माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ॥ टङ्कः स एव कथितस्तद्द्वयं कोलमुच्यते । क्षुद्रमो वटकश्चैव द्रङ्क्षणः स निगद्यते ॥ कोलद्बयस्तु कर्षः स्यात् स प्रोक्तः पाणि- मानिकः । अक्षः पिचुः पाणितलं किञ्चित् पाणिश्च तिन्दु- कम् ॥ विडालपदकञ्चैव तथा षोडशिका मताः । करमध्यो हंसपदं सुवर्णं कवलग्नहम् ॥ उडुम्बरञ्च पर्य्यायैः कर्ष एब निगद्यते । स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका । प्रकुञ्चः षोडशी विल्वं पलमेमात्र कीर्त्त्यते ॥ पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते । प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धसरावकः ॥ अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका । सरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ॥ शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः ॥ चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः । उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥ द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः । सूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता ॥ द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः । चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥ पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः । तुलापलशतं ज्ञेया सर्व्वत्रैवैष निश्चयः ॥ माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” * ॥ मागधपरिभाषायां षड्रत्तिको माषश्चतुर्व्विंशति- रत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः । अयं चरक- सम्मतः ॥ सुश्रुतमते । पञ्चरत्तिको माषो विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः । अय- मेव कलिङ्गपरिभाषायामपि । यतस्तत्राष्ट- रत्तिको माषो द्बात्रिंशद्रत्तिकष्टङ्कः । सार्द्ध- टङ्कद्वयमितः कर्षः । “गुञ्जादिमानमारभ्य यावत् स्यात् कुडवस्थितिः । द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम् ॥ प्रस्थादिमानमारभ्य द्बिगुणन्तु द्रवार्द्रयोः । मानं तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम् ॥ मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् । विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् ॥” इति मागधमानम् ॥ * ॥ अथ कालिङ्गमानम् । “यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ । अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता ॥ यवो द्वादशभिर्गौरैः सर्षपैः प्रोच्यते बुधैः । यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित् ॥ चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च । गद्यानो माषकैः षडभिः कर्षः स्याद्दशमा- षिकः ॥ चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः । चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्ब्बवन्मताः ॥ स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम् । प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ॥ नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महा- नलम् । अतिमात्रञ्च दोषाय यथा शस्ये बहूदकम् ॥” इति मानपरिभाषा । इति भावप्रकाशः ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--four kinds of; सौर, सौम्य, नक्षत्र and सावन; a measurement. वा. ५०. १८८. Br. II. २१. १३७.
