सामग्री पर जाएँ

मानवौघः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मानवौघः, पुं, (मानवानां ओघः यस्मिन् ।) तारा- विद्यायाः पीठस्य उत्तरे वायव्यादीशपर्य्यन्तं पूज्यगुरुपङ्क्तिविशेषः । यथा । तारावत्यम्बभानु- मत्यम्बजयाम्बविद्याम्बमहोदर्य्यम्बसुखानन्दनाथ- परानन्दनाथपारिजातानन्दनाथकुलेश्वरानन्द- नाथविरूपाक्षानन्दनाथफेरव्यम्बाः पूजयेत् । एते मानवौघाः । तथा च तन्त्रे । “अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् । ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥ दिव्यौघाः सिद्धिदा वत्स ! सिद्धौघान् शृणु यत्नतः । वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः ॥ हरिनाथो मानवौघान शृण वक्ष्यामि तद्- गुरून् । तारावती भानुमती जयाविद्या महोदरी ॥ सुखानन्दः परानन्दः पारिजातः कुलेश्वरः । विरूपाक्षः फेरवी च कथितं तारिणीकुलम् ॥ आनन्दनाथशब्दान्ता गुरुवः सर्व्वसिद्धिदाः । स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परिकी- र्त्तिताः ॥” इति तन्त्रसारः ॥

"https://sa.wiktionary.org/w/index.php?title=मानवौघः&oldid=157631" इत्यस्माद् प्रतिप्राप्तम्