मानसजप
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानसजपः, पुं, (मानसेन कृतो जपः ।) धिया वर्णश्रेण्युच्चारणम् । यथा, “धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् । उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ॥ तज्जपे नियमो नास्त्येव । तथा च । “अशुचिर्वा शुचिर्वापि गच्छंस्तिष्ठन् स्वप- न्नपि । मन्त्रैकशरणो विद्वान् मनसैव समभ्यसेत् ॥ न दोषो मानसे जाप्ये सर्व्वदेशेऽपि सर्व्वदा ॥” इति तन्त्रसारः ॥
