मानसतीर्थम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानसतीर्थम्, क्ली, (मानसं तीर्थमिव । रागाद्य- मावात् तथात्वम् ।) रागादिरहितं मनः । यथा, सूत उवाच । “तीर्थानि कथितान्येवं भौमानि मुनिसत्तम ! । मानसानीह तीर्थानि फलदानि विशेषतः ॥ मनो निर्म्मलतीर्थं हि रागादिभिरनाविलम् ॥” इति नारसिंहपुराणे ४६ अध्यायः ॥
