सामग्री पर जाएँ

मानसपूजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मानसपूजा, स्त्री, (मानसकृता पूजा । शाक- पार्थिववत् समासः ।) मनोरचितद्रव्यकरणक- सपर्य्या । यथा, हृत्पद्ममध्ये देवीं विभाव्य कुण्डलीपात्रसंस्थेन स्रहस्रारामृतेन पाद्यं देव्या- श्चरणे दद्यात् । ततो मनश्चार्घ्यं दत्त्वा सहस्र- दलपद्मभृङ्गारललितपरमामृतजलेन आचम- नीयं मुखे । पञ्चविंशति तत्त्वेन गन्धञ्च । अहिंसां विज्ञानं क्षमां दयां अलोभं अमोहं अमात्सर्य्यं अमायां अनहङ्कारं अरागं अद्वेषं इन्द्रियाणि द्बादश एतानि पुष्पाणि च प्रदाप- येत् । ततस्तेजोरूपं दीपं वायुरूपं धूपं दद्यात् अम्बरं चामरं दर्पणं सूर्य्यं चन्द्रं छत्रं पद्मन्तु मेखलां आनन्दं हारमुत्तमं अनाहतध्वनिमयीं घण्टां निवेदयेत् । ततः सुधारसाम्बुधिं मांस- पर्व्वतं ब्रह्माण्डपूरितं पायसञ्च दत्त्वा । “मनोनर्त्तनसत्तालैः शृङ्गारादिरसोद्भवैः । नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम् ॥” एवं संपूज्य अभेदेन जपः कार्य्यः । इति तन्त्र- सारे त्रिपुराप्रकरणम् ॥ * ॥ मानसैर्गु रुपूजा यथा, नीलतन्त्रे । “ततो मानसगन्धाद्यैः पूजयेत् स्वस्वमुद्रया । कनिष्ठा पृथिवीतत्त्वं तद्योगाद्गन्धयोजनम् ॥ अङ्गुष्ठो गगनं तत्त्वं तेनैव पुष्पयोजनम् । तर्ज्जनी वायुतत्त्वं स्याद्धूपं तेनैव योजयेत् ॥ अनामा जलतत्त्वं स्यात्तेनैव योजयेच्च कम् । ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः ॥ जपं समर्प्य भक्त्या च प्रणमेद्दण्डवद्भुवि ॥” अपि च । “मिथुनं चिन्तयित्वा तु मानसैरुपचारकैः । भौतिकैः पूजयेद्बिद्वान् मुद्रामन्त्रसमन्वितैः ॥ भूभ्याकाशमरुद्वह्निवारिमन्त्रैः सबिन्दुकैः । कनिष्ठाङ्गुलितर्ज्जन्यौ मध्यमानामिके तथा ॥ अङ्गुष्ठेन समायोगान्मुद्राः पञ्च प्रकीर्त्तिताः । पृथिव्यात्मकगन्धः स्यादाकाशात्मकपुष्पकम् ॥ धूपो वाय्वात्मकः प्रोक्तो दीपो वह्न्यात्मकः परः । रसात्मकञ्च नैवेद्यं पूजा पञ्चोपचारिका ॥ ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः ॥” इत्यन्नदानकल्पः ॥ अन्यच्च । “मानसैरुपचारैश्च संपूज्य कल्पयेन्मुदा । गन्धं भूम्यात्मकं दद्याद्भावपुष्पं ततः परम् ॥ धपं वाय्वात्मकं देयं तेजसा दीपमेव च । नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् ॥ अम्बरं मुकुरं दद्याच्चामरं छत्रमेव च । तत्रन्मुद्राविधानेन संपूज्यात्मगुरुं जपेत् ॥ यथाशक्ति जपं कृत्वा समाप्य कवचं पठेत् ॥” इति कङ्कालमालिनीतन्त्रम् ॥ पूजाक्रमस्तु । निजगुरुं ध्यात्वामुकानन्दनाथा- मुकशक्ताम्बाश्रीपादुकां पूजयामीति मानसै- र्गन्धाक्षतकुसुमैरर्च्चयेत् । कनिष्ठाभ्यां लं पृथि- व्यात्मकं गन्धं समर्पयामि नमः । अङ्गुष्ठाभ्यां हं आकाशात्मकं पुष्पं समर्पयामि नमः । तर्ज्ज- नीभ्यां यं वाय्वात्मकं धूपं समर्पयामि नमः । मध्यमाभ्यां रं वह्न्यात्मकं दीपं समर्पयामि नमः । अनामिकाभ्यां वं अमृतात्मकं नैवेद्यं समपैयामि नमः । इति कुलमूलावतारकल्प- सूत्रटीकायां तृतीयकाण्डम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मानसपूजा/ मानस--पूजा f. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=मानसपूजा&oldid=347121" इत्यस्माद् प्रतिप्राप्तम्