मानसम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानसम्, क्ली, (मन एव । मनस् “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थे अण् ।) मनः । इत्य- मरः । १ । ४ । ३१ ॥ (यथा, मार्कण्डेये । १५ । ६१ । “यज्ञदानतपांसीह परत्र च न भूतये । भवन्ति तस्य यस्यार्त्तपरित्राणे न मानसम् ॥”) तस्य गुणा यथा, -- “परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे ।” इति भाषापरिच्छेदः ॥ (मनसि भवो जातो वा । मनस् + अण् ।) मनोभवे, त्रि । यथा, सङ्कल्पः कर्म्ममानसम् ॥ इत्यमरः । १ । ५ । २ ॥ “विषयेष्वतिसंरागो मानसो मल उच्यते ।” इत्येकादशीतत्त्वम् ॥ “अनूढानङ्गपीडेव ममेयं मानसी व्यथा ॥” इति प्राञ्चः ॥ मानसतापो यथा, -- “कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्या मात्सर्य्यादिभयन्तथा ॥ मानसोऽपि द्बिजश्रेष्ठ ! तापो भवति नैकधा ॥” इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥ त्रिविधमानसकर्म्म । यथा, -- “परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥” इति तिथ्यादितत्त्वम् ॥ मानसरोगा यथा, -- कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्य- विषादेर्ष्यासूयामात्सर्य्यप्रभृतयः । अथवा । उन्मादापस्मारमूर्च्छाभ्रमतमःसंन्यासप्रभृतयः । इति भावप्रकाशः ॥ * ॥ (मनसा सङ्कल्पेन कृत- मित्यण् ।) सरोवरविशेषः । इति मेदिनी । से, ३१ ॥ स च कैलासे ब्रह्मणा निर्म्मितः । यथा, -- “कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः । यक्षराक्षसगन्धर्व्वैर्नित्यं सेवितकन्दरः ॥ श्रीमान्मनोहरश्चैव नित्यं पुष्पितपादपः । हेमपुष्करसंछन्नं तेन वैखानसं सरः ॥ कम्पितं मानसञ्चैव राजहंसनिषेवितम् ॥” इति महाभारते हरिवंशे नारसिंहे २२८ अः ॥ अपि च । “कैलासपर्व्वते राम ! मनसा निर्म्मितं परम् । ब्रह्मणा नरशार्दूल ! तेनेदं मानसं सरः ॥ तस्मात् सुस्राव सरसः सायोध्यामुपगूहते । सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥” इति रामायणे आदिकाण्डे २४ सर्गः ॥ * ॥ (पुं, नागविशेषः । यथा, महाभारते । १ । ५७ । १६ । “अमाहठः कामठकः सुषेणो मानसो व्ययः ।” शाल्मलीद्वीपस्य वर्षविशेषः । यथा, मात्स्ये । ५३ । २३ । “श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्यतो मानसश्चैव केतुमान् सप्तमस्तथा ॥” पुष्करद्वीपस्थपर्व्वतविशेषः । यथा, मात्स्ये । “द्वीपार्द्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः ।”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the region of शाल्मलिद्वीप adjoining the महिष hill. Br. II. १९. ४५; वा. ४९. ४०.
