सामग्री पर जाएँ

मानुषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मानुषः, पुं, (मनोर्जातः । मनु + “मनोर्जाता- वञ् यतौ षुक् च ।” ४ । १ । १६१ । इत्यञ् षुगागमश्च ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, मनौ । ९ । २८४ । “चिकित्सकानां सर्व्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥” मनुष्यस्येदम् । अण् । मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । १३ । ६ । २० । “अकृत्वा मानुषं कर्म्म यो दैवमनुवर्त्तते । वृथा श्राम्यति संप्राप्य पतिं क्लीवमिवाङ्गना ॥”)

"https://sa.wiktionary.org/w/index.php?title=मानुषः&oldid=157657" इत्यस्माद् प्रतिप्राप्तम्