मानुष्यकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानुष्यकम्, क्ली, (मनुष्याणां समूहः । मनुष्य + “गोत्रोक्षोष्ट्रोरभ्रेति ।” ४ । २ । ३९ । इति वुञ् ।) मनुष्यसमूहः । इत्यमरः । ३ । २ । ४३ । (मनुषस्येदं मानुष + यत् । स्वार्थे कन् । (मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । ५ । ७७ । ८ । “सुमन्त्रितं सुनीतञ्च न्यायतश्चोपपादितम् । कृतं मानुष्यकं कर्म्म दैवेनापि विरुध्यते ॥”)
