सामग्री पर जाएँ

मान्धातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मान्धाता, [ऋ] पुं, (मां धास्यतीति । घेट् + तृच् ।) युवनाश्वराजपुत्त्रः । तत्पर्य्यायः । युवनाश्वजः २ । इति हेमचन्द्रः । ३ । ३६४ । तद्बिवरणं यथा । ‘तस्मात् प्रसेनजित् ततो युव- नाश्वोऽमवत् । तस्य च पुत्त्रस्यातिनिर्व्वेदान्- मुनीनामाश्रममण्डले निवसतः कृपालुभिस्तै- र्मुनिभिरपत्योत्पादनायेष्ठिः कृता । तस्याञ्चार्द्ध- रात्रे निवृत्तायां मन्त्रपूतजलपूर्णकलसं वेदी- मध्ये निवेश्य ते मुनयः सुषुपुः । सुप्तेषु च तेष्व- तीवतृट्परीतः स भूपालस्तमाश्रममण्डलं विवेश । सुषुप्तांश्च तानृषीन् नैवोत्थापयामास ॥ तच्च कलसजलमपरिमेयमाहात्म्यं मन्त्रपूतं पपौ । प्रबुद्धाश्च ऋषयः पप्रच्छुः । केनैतन्मन्त्र- पूतं वारि पीतम् । अत्र हि पीते राज्ञोऽस्य युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्त्रं जन- यिष्यति । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह । गर्भश्च युवनाश्वोदरेऽभवत् । क्रमेण च ववृधे । प्राप्तसमयश्च दक्षिणं कुक्षि- मवनीपतेर्निभिद्य निश्चक्राम । न चासौ राजा ममार । जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः । अथागम्य देवराडब्रवीत् । मामयं धास्यति । ततोऽसौ मान्धाता नामतोऽभवत् । वक्त्रे चास्य प्रदेशिनी देवेन्द्रेण न्यस्ता तां पपौ । ताञ्चामृतस्राविणीमासाद्याह्नैवैकेन व्यवर्द्धत । स तु मान्धाता चक्रवर्त्ती सप्तद्बीपां महीं बुभुजे । भवति चात्र श्लोकः । “यावत् सूर्य्य उदेतिस्म यावच्च प्रतितिष्ठति । सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥” मान्धाता शशबिन्दुदुहितरं बिन्दुमतीमुपयेमे । पुरुकुत्समम्बरीषं मुचुकुन्दञ्च तस्यां पुत्त्रत्रय- मुत्पादयामास । पञ्चाशच्च दुहितरस्तस्यामेव तस्य नृपतेर्ब्बभूवुः ।” इति विष्णुपुराणे ४ अंशे २ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मान्धातृ¦ पु॰ मामिन्द्रं धयति धे--वृच्।
“मामयं धास्यती-त्यस्मात् मान्धातासौ प्रकीर्त्तितः” इति निरुक्ते युव-नाश्वराजपुत्रे नृपभेदे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मान्धातृ¦ m. (-ता) A king fostered by INDRA. E. मां me, धातृ drinker; from धे to drink; having on one occasion sucked Amrita from the finger of INDRA, who then used the exclamation which afterwards was the name of the prince.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मान्धातृ [māndhātṛ], m. N. of a king of the solar race, son of Yuvanāśva (being born from his own belly). As soon as he came out of the belly, the sages said 'कम् एष धास्यति'; whereupon Indra came down and said 'मां धास्यति'; the boy was, therefore, called Māndhātṛi.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मान्धातृ m. (See. मन्धातृ)N. of a king (son of युवना-श्व, author of RV. x , 134 ), A1lvS3r. MBh. etc.

मान्धातृ m. of another prince (son of मदन-पाल, patron of विश्वेश्वर) Cat.

"https://sa.wiktionary.org/w/index.php?title=मान्धातृ&oldid=347767" इत्यस्माद् प्रतिप्राप्तम्