मान्यस्थानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मान्यस्थानम्, क्ली, (मान्यस्य स्थानं ।) पूज्यत्व- कारणम् । यथा, -- “वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूत्रोऽपि दशमीं गतः ॥” इति मानवे २ अध्यायः । कौर्म्म ११ अध्याये- ऽप्येवम् ॥
