मामकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मामकम्, त्रि, (ममेदम् । अस्मद् + “तवकममका- वेकवचने ।” ४ । ३ । ३ । इति अण् ममका- देशश्च ।) मदीयम् । इति मेदिनी । के, १३८ ॥ (यथा, महाभारते । १ । १०५ । १२ । “ततो मामाह स मुनिर्गर्भमुत्सृज मामकम् ॥”) ममतायुक्तः । इति शब्दमाला ॥ यथा च महाभारते । ४ । ५० । १७ । “अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ॥”)
