मामकीनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मामकीनम्, त्रि, (ममेदम् । अस्मद् + “तवकमम- कावेकवचने ।” ४ । ३ । ३ । इति खञ् । ममका- देशश्च ।) मदीयम् । ममेदमित्यर्थे णीने क्तेर्लुकि अस्मद एकत्वान्मदादेशे अस्य च ममकादेशे वृद्धौ मामकीनम् । इति दुर्गादासः ॥ (यथा, कथासरित्सारे । ३२ । १४५ । “एतच्च मे कियत् किं हि न बुद्ध्या साधयाम्य- हम् । प्रज्ञानं मामकीनं च श्रूयतां वर्णयामि ते ॥”)
