मायाकारः

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मायाकारः, पुं, (मायां इन्द्रजालव्यापारं करो- तीति । कृ + अण् ।) ऐन्द्रजालिकः । वाजी- कर इति भाषा । तत्पर्य्यायः । प्रातिहारिकः २ । इत्यमरः । २ । १० । ११ ॥ मायां स्थल- जलादौ जलस्थलादिज्ञानं करोतीति माया- कारः षण् । प्रतिहरणं प्रतिहारो व्याजः भावे घञ् स प्रयोजनमस्य प्रातिहारिकः ष्णिकः णित्त्वे व्रिरिति वृद्धिः । प्रतिहारक इत्यपि पाठः । तत्र प्रति प्रथमं सुष्ठु मनो नयने च हरति ज्ञाते न किञ्चिदिति प्रतिहारकः ॥ णकान्तात् स्वार्थे ष्णे प्रातिहारकश्च घञि प्रति- हारश्च । इति तट्टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=मायाकारः&oldid=157689" इत्यस्माद् प्रतिप्राप्तम्