मायातिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मायातिः, पुं, (मायया सह अतति । यद्बा, मा अततीति । अत + “अज्यतिभ्यां च ।” उणा० ४ । १३० । इति इण् ।) नरबलिः । यथा, -- “मायातीनाञ्च निर्णीतं श्रूयतां मुनिसत्तम ! । वक्ष्याम्यथर्व्ववेदोक्तं फलहानिर्व्यतिक्रमे ॥ पितृमातृविहीनञ्च युवकं व्याधिवर्जितम् । विवाहितं दीक्षितञ्च परदारविहीनकम् ॥ अजारिकं विशुद्धञ्च सच्छूद्रं मूलकं वरम् । तद्बन्धुभ्यो धनं दत्त्वा क्रीतं मूल्यातिरेकतः ॥ स्नापयित्वा च तं धर्म्मी संपूज्य वस्त्रचन्दनैः । माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ॥ तञ्च वर्षं भ्रामयित्वा चरद्वारेण यत्नतः । वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ॥ अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च । इत्येवं कथितं सर्व्वं बलिदानप्रसङ्गतः ॥ बलिं दत्त्वा च स्तुत्वा च धृत्वा च कवचं बुधः । प्रणम्य दण्डवद्भूमौ दद्याद्बिप्राय दक्षिणाम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १६ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मायातिः [māyātiḥ], A sacrifice to men.
