सामग्री पर जाएँ

मायामोहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मायामोहः, पुं, (मायया मोहयति असुरानिति । मुह + णिच् + अच् । माया च मोहश्च तौ यस्येति वा ।) विष्णुदेहनिर्गतासुरमोहक- पुरुषविशेषः । यथा, -- श्रीपराशर उवाच । “इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । तमुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥” श्रीभगवानुवात्त । “मायामोहोऽयमखिलान् दैत्यांस्तान् मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः । ब्रह्मणो येऽधिकारस्य देवदैत्यादिकाः सुराः ॥ तद्गच्छत न भीः कार्य्या मायामोहोऽयमग्रतः । गच्छत्वद्योपकाराय भवतां भविता सुराः ॥” श्रीपराशर उवाच । “इत्युक्त्वा प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहोऽपि तैः सार्द्धं ययौ यत्र महा- सुराः ॥” इति विष्णुपुराणे ३ अंशे १७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=मायामोहः&oldid=157702" इत्यस्माद् प्रतिप्राप्तम्