सामग्री पर जाएँ

मायावान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मायावान्, [त्] पुं, (माया अस्त्यस्य । माया + “अस्मायामेधास्रजो विनिः ।” ५ । २ । १२१ । इति पक्षे मतुप् । मस्य वः ।) कंसराजः । इति शब्दरत्नावली ॥ मायायुक्ते, कपटयुक्ते च त्रि । (यथा, ऋग्वेदे । ४ । १६ । ९ । “ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावान- ब्रह्मा दस्युरर्त्त ।” “मायावान् कपटवान् ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=मायावान्&oldid=157707" इत्यस्माद् प्रतिप्राप्तम्