सामग्री पर जाएँ

मारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मारः, पुं, (मृ + भावे घञ् ।) मृतिः । (यथा, बृहत्संहितायाम् । ३ । ३१ । “क्षुन्मारकृद्घटनिभः खण्डो नृपहा विदी- धितिर्भयदः ।”) म्रियन्ते प्राणिनोऽनेन । मृ + घञ् ।) काम- देवः । (यथा, नैषधे । ४ । ७९ । “अनुममार न मार ! कथं नु सा रतिरतिप्रथितापि पतिव्रता । विरहिणीशतघातनपातकी दयितयापि तयासि किमुज्झितः ॥”) विघ्नः । इति मेदिनी । रे, ७६ ॥ (मृ + णिच् + घञ् ।) मारणम् । इति हेमचन्द्रः । २ । ३६ ॥ धुस्तूरः । इति शब्दचन्द्रिका ॥ मारगणोत्पत्ति- र्यथा, -- माकेण्डेय उवाच । “मनोभवस्य वचनं श्रुत्वाथ चतुराननः । विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारकम् ॥ सर्व्वस्य मोहने ब्रह्मा चिन्ताविष्टोऽभवन्नहि । समर्थो मोहितुमिति निशश्वास मुहुर्मुहुः ॥ निश्वासमारुतात्तस्य नानारूपा महाबलाः । जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः तुरङ्गवदनाः केचित् केचिद्गजमुखास्तथा । सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः ॥ त्वमेवैषां गणाध्यक्षः पञ्चयज्ञाङ्गभोजिनः । नित्यक्रियावतां तोयभोगिनोऽपि भवन्त्विमे ॥” इति कालिकापुराणे ६ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मारः [mārḥ], [मृ-घञ्]

Killing, slaughter, slaying; अशेष- प्राणिनामासीदमारो दश वत्सरान् Rāj.T.5.64.

An obstacle, hindrance, opposition.

The god of love; श्यामात्मा कुटिलः करोतु कबरीभारोपि मारोद्यमम् Gīt.3; (where मार primarily means 'killing'); Nāg.1.1.

Love, passion.

The thorn-apple (धत्तूर).

An evil one, a destroyer; the tempter (according to Buddhists); सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु वः Nāg.1.1; Pt.5. 14.

Death. -Comp. -अङ्क a. 'marked by love', displaying signs of love; माराङ्के रतिकेलिसंकुलरणारम्भे Gīt.12. -अभिभूः (भुः ?) an epithet of a Buddha.-अरिः, रिपुः Śiva. -आत्मक a. murderous; कथं मारात्मके त्वयि विश्वासः कर्तव्यः H.1. -जातकः a cat. -जित् m. an epithet of Śiva.

of a Buddha.

"https://sa.wiktionary.org/w/index.php?title=मारः&oldid=348472" इत्यस्माद् प्रतिप्राप्तम्