मारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारणम्, क्ली, (मार्य्यते इति । मृ + णिच् + भावे ल्युट् ।) वधः । इत्यमरः । २ । ८ । ११४ ॥ (यथा, मनौ । ५ । ३८ । “यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥”) अभिचारविशेषः । यथा, -- “एवन्तु मारणं देवि ! विशेषात् कथयामि ते । सान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् ॥ कूर्च्चयुग्मं ततो देवि ! अमुकं मारय मारय । चतुर्दशाक्षरो मन्त्रो स्वाहान्तः शत्रुनाशकः ॥ खदिराङ्गारमादाय कुजाष्टम्यां विशेषतः । लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपत्रके ॥ निशायां मस्तके नेत्रे ललाटे हृदये करे । नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये ॥ मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् । संहारमुद्रां बद्ध्वा तु ध्यायेद्देवीं जयप्रदाम् ॥ दीर्घाकारां कृष्णवर्णां सदार्द्धस्तनमस्तकाम् । नृमुण्डयुगलं हस्तं चर्व्वयन्तीं दिगम्बरीम् ॥ शत्रुनाशकरीं देवीं ध्यायेत् शत्रुक्षयाय च । एवं ध्यात्वेष्टिकाचूर्णैर्व्वामहस्तेन शङ्करि ! ॥ ओ~शत्रुनाशकर्य्यै नमः इति दत्त्वा महेश्वरि ! । हरिद्राचूर्णसहितां धारां दद्यादनेन तु ॥ अमुकस्य शोणितं पिब पिबेति तत्परम् । मांसं खादय खादय ह्री~ नम इति मन्त्रम् ॥ मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् । जपेदेकादशाहे च रोगः स्यान्नात्र संशयः ॥ दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्भवेत् ॥ * ॥ अथवान्यप्रकारेण शत्रुक्षयमहं वदे । पुंगोशकृत् समादाय पूजयेदुष्णवारिणा ॥ विपरीतक्रमेणैव जपपूजादिकं चरेत् । महादेवाय नम इति पुंगोशकृत् समाहरेत् ॥ शिवाय नम इति मन्त्रेण घटनञ्च समाचरेत् । पशुपतये नम इति प्राणान् संस्थापयेत्ततः ॥ लौहपात्र महेशानि ! खदिराङ्गारयोगतः । शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेत् शिवम् ॥ ततो ध्यायेन्महारुद्रं ध्यानन्तु सुसमाहितः । शत्रोर्व्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम् ॥ वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् । नरचर्म्माम्बरं देवं महाव्यालादिवेष्टितम् ॥ पिनाकधृक् इहागच्छागच्छ इत्यादिनावाह्य यत्नतः । शूलपाणये नम इति स्नापयेत् साधकोत्तमः ॥ महेश्वराय नम इति पाद्यादिना प्रपूजयेत् । ईशानादिस्तथा मूर्त्तिर्व्युत्क्रमेण प्रपूजयेत् ॥ अग्निकोणादिपर्य्यन्तं पूर्ब्बरीत्या महेश्वरि ! । नमः शिवायेति मूलमष्टाविंशति संजपेत् । हु~ क्षमस्वेति वामेन करेण तु विसर्ज्जयेत् ॥ अजित केशव विष्णो हरे सत्य जनार्द्दन । हंस नारायण स्वाहा मन्त्रमेव सकृज्जपेत् ॥ हु~ नमो भगवते वासुदेवाय स्वाहा नम इत्यपि सकृज्जपेत् । एवमेकादशाहेन शत्रूच्छेदनमञ्जसा । अवश्यं जायते देवि ! सत्यं सत्यं त्रिलोचने ! ॥” इति योगिनीतन्त्रे पूर्ब्बखण्डे ४ पटलः ॥ अपि च । “गृध्रास्थिञ्च गवास्थिञ्च मूत्रनिर्म्माल्यमेव च । अरेर्यो निखनेत् द्वारे पञ्चत्वमुपयाति सः ॥” इति गारुडे १८६ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारण नपुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।114।2।3

निस्तर्हणं निहननं क्षणनं परिवर्जनम्. निर्वापणं विशसनं मारणं प्रतिघातनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारण¦ न॰ मृ--णिच्--भावे ल्युट्।

१ बये अमरः। करणे ल्युट्। वैरिबधसाधने तन्त्रोक्ते अभिचारकर्मभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारण¦ n. (-णं)
1. Killing, slaughter.
2. A magical ceremony for the purpose of destroying an enemy.
3. A kind of poison. E. मृ to die, causal form, to kill, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारणम् [māraṇam], [मृ-णिच् ल्युट्]

Killing, slaying, slaughter, destruction; पशुमारणकर्मदारुणः Ś.6.1.

A magical ceremony performed for the purpose of destroying an enemy.

Calcination.

A kind of poison.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारण n. killing , slaying , slaughter , death , destruction MaitrS. Mn. Hariv. etc. ( णम् प्रआप्, to suffer death)

मारण n. a magical ceremony having for its object the destruction of an enemy (also 663253 -कर्मन्n. and 663253.1 -कृत्यn. ) Ra1matUp. Pan5car.

मारण n. ( scil. अस्त्र) , " slayer " , N. of a partic. mystical weapon R.

मारण n. calcination Cat.

मारण n. a kind of poison(See. मरण)

"https://sa.wiktionary.org/w/index.php?title=मारण&oldid=503505" इत्यस्माद् प्रतिप्राप्तम्