मारीचः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मारीचः, पुं, (मरीचेरपत्यं पुमान् । मरीचि + अण् ।) राक्षसविशेषः । स च तारकाराक्षसी- पुत्त्रः रावणस्यानुचरः सीताहरणकाले माया- मृगरूपोऽसौ श्रीरामेण हतश्च । इति रामा- यणम् ॥ अस्य विवरणं यथा, -- “एतस्मिन्नन्तरे रामो ददर्श कनकं मृगम् । सीता तं प्रेरयामास तदर्थे यत्नपूर्ब्बकम् ॥ संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने । स्वयं जगाम तूर्णं तं विव्याध शायकेन च ॥ हा लक्ष्मणेति शब्दञ्च कृत्वाथ मायया मृगः । प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ॥ मृगदेहं परित्यज्य दिव्यं देहं विधाय च । रत्ननिर्म्माणयानेन वैकुण्ठं स जगाम ह ॥ वैकुण्ठद्बारे द्बार्य्यासीत् किङ्करो द्वारपालयोः । जयश्च विजयश्चैव बलवांश्चाजिताभिधः ॥ शापेन शनकादीनां संप्राप्य राक्षसीं तनुम् । पुनर्जगाम च द्बारमादौ च द्वारपालयोः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १२ अध्यायः ॥ कश्यपः । यथा, -- “इति संचिन्त्य भगवान् मारीचः कुरुनन्दन ! । उवाच किञ्चित् कुपित आत्मानञ्च विगर्हयन् ॥” इति श्रीभागवते ६ स्कन्धे १८ अध्यायः ॥ (तथा च महाभारते । १३ । ८५ । १०७ । मरीचिभ्यो मरीचिस्तु मारीचः कश्यपोऽह्य भूत् ॥”) कक्कोलकम् । याजकब्राह्मणः । इति मेदिनी । चे, १७ ॥ राजहस्ती । इति जटाधरः ॥
