मार्कण्डेयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्कण्डेयः, पुं, (मृकण्डोरपत्यं । मृकण्डु + शुभ्रा- दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।) मृकण्डु- मुनिपुत्त्रः । जन्मतिथ्यादौ पूजायां तस्य ध्यानं यथा, “द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् । मार्कण्डेयं नरो भक्त्या पूजयेच्च चिरायुषम् ॥” तस्य प्रार्थनामन्त्रः । ततो यमालयात्तत्र आगता यमकिङ्कराः । पाशहस्तास्तु तं नेतुं विष्णुदूतैस्तु ते हताः ॥ मुषलैर्हन्यमानास्ते इदमुक्त्वा पुनः पुनः । वयं निवृत्ता गच्छामो मृत्युरेवागमिष्यति ॥ आगत्य स्वयमेवात्र मृत्युः पार्श्वे महात्मनः । मार्कण्डेयस्य बभ्राम विष्णुकिङ्करशङ्कया ॥ ते चाप्युद्गम्य मुषलान्यभ्ययुर्विष्णुकिङ्कराः । विष्ण्वाज्ञया हनिष्यामो मृत्युमस्येति संस्थिताः ॥ ततो विष्ण्वर्पितमना मार्कण्डेयो महामतिः । तुष्टाव प्रणतो भूत्वा देवदेवं जनार्द्दनम् ॥ विष्णुनैवोपदिष्टन्तु स्तोत्रं कर्णे महात्मनः । स्वभावितेन मनसा तेन तुष्टाव माधवम् ॥ ओ~ नमो भगवते वासुदेवाय । नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किन्नो मृत्युः करिष्यति ॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ बाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् । माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ पुरुषं पुष्करं बीजं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ इत्युदीरितमाकर्ण्य स्तोत्रं तत्र महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ मृत्य्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥” श्रीभगवानुवाच । “य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥” व्यास उवाच । “हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । सञ्चिन्त्य सूर्य्यादपि राजमानो मृत्युं स योगी जितवांस्तदैव ॥” इति नारसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम अध्यायः ॥ (मार्कण्डेयेन प्रोक्तम् । मार्कण्डेय + अण् । पुराणविशेषः । यथा, देवीभाग- वते । १ । ३ । १ -- ३ । “शृण्वन्तु संप्रवक्ष्यामि पुराणानि मुनीश्वराः ।” इत्यारभ्य -- तथा ग्रहसहस्रन्तु मार्कण्डेयं महाद्भुतम् ॥”)
