सामग्री पर जाएँ

मार्गपाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मार्गपाली, स्त्री, (मार्गं पालयति हिंस्रेभ्यो रक्षतीति । पाल + अच् । गौरादित्वात् ङीष् ।) स्तम्भः । यथा, “ततोऽपराह्नसमये पूर्ब्बस्यां दिशि नारद ! । मार्गपालीं प्रबध्नीयाद्दुर्गस्तम्भे च पादपे ॥ कुशकाशमयैर्दिव्यां संस्कारैर्ब्बहुभिर्मुदा । भूषयित्वा गजानश्वानङ्कुशग्राहिसंयुतान् ॥ गोवृषान् महिषांश्चैव घण्टाभरणभूषितान् । भेरीमृदङ्गपटहवादित्रध्वनिनादितान् । तस्याः स्थाने नयेत् सायं शान्तिपाठादि- नन्दितः ॥ मार्गपालि नमस्तुभ्यं सर्व्वानन्दप्रवर्षिके । तले तव सुखेनाश्वा गजा गावः प्रयान्तु मे ॥ राजानो राजपुत्त्राश्च ब्राह्मणाः शूद्रजातयः । मार्गपालीं समालिख्य वार्त्ताः स्युश्च सदैव हि ॥ ततो गावश्च संपूज्या गन्धपुष्पादिभिः क्रमात् । आत्मनः श्रेयसे भूप इति पूजां करोति हि ॥ अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः । गावो मे सर्व्वतः सन्तु गवां मध्ये वसाम्यहम् ॥ या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता । क्षीरं वहति यज्ञार्थे मम पापं व्यपोहतु ॥ या कामधेनुर्भवने च विष्णो- र्या कामधेनुर्यमदग्निगेहे । या सौरभेयी तु वशिष्ठगेहे सा कामधेनुर्वरदा ममास्तु ॥ कृत्वैतत् सर्व्वमानन्दाद्रात्रौ दैत्यपतेर्बलेः । पूजां कृत्वा ततः पश्चात् सम्यग्दूतं समारभेत् ॥” इति पाद्मे उत्तरखण्डे कार्त्तिकमाहात्म्ये १२४ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मार्गपाली/ मार्ग--पाली f. " road-protectress " , N. of a goddess PadmaP.

"https://sa.wiktionary.org/w/index.php?title=मार्गपाली&oldid=349165" इत्यस्माद् प्रतिप्राप्तम्