मार्ज्ज
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्ज्ज क मार्ज्जने । ध्वनौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क मार्ज्जयति । इति दुर्गादासः ॥
मार्ज्जः, पुं, (मार्ज्जयति पापमलं प्रक्षाल्य उद्धरति जनानिति । मार्ज्ज + णिच् + अच् ।) विष्णुः । इति हेमचन्द्रः । २ । ४४ ॥ (मार्ज्जयति वसन- मलमिति । मार्ज्ज् + अच् ।) रजकः । इति शब्दमाला ॥ मार्जनम् । इत्यमरटीकायां भरतः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्ज्ज¦ मार्जने सक॰ ध्वनौ अक॰ चुरा॰ उभ॰ सेट्। मार्ज-यति--ते अममार्जत्--त।