मार्ज्जन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्ज्जनम्, क्ली, (मार्ज्ज्यते इति । मार्ज्ज् + भावे ल्युट् ।) प्रोञ्छनादिना अङ्गनिर्म्मलीकरणम् । माजा इति भाषा । तत्पर्य्यायः । मार्ष्टिः २ मार्ष्टी ३ मार्ज्जना ४ मृजा ५ । इति शब्द- रत्नावली ॥ मार्ज्जः ६ मार्ज्जा ७ । इत्यमर- टीकायां भरतः ॥ (यथा, श्रीमद्भागवते । ९ । ४ । १८ । “स वै मनः कृष्णपदारबिन्दयो र्वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्ज्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥”) आपोहिष्ठेतिसूक्तस्य सिन्धुद्बीप ऋषिः स्मृतः । आपो वै देवता च्छन्दो गायत्त्री मार्जनं स्मृतम् ॥” इत्याह्निकाचारतत्त्वम् ॥
मार्ज्जनः, पुं, (मार्ज्ज्यतेऽनेनेति । मार्ज्ज + ल्युट् ।) लोध्रवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ श्वेतलोध्रः । इति सुभूतिः ॥ रक्तलोध्रः । इति स्वामी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्ज्जन¦ न॰ मृज--ल्युट्। प्रोञ्छनादिना निर्मलीकरणे। युच्। तत्रैवार्थे स्त्री। सा च
२ मुरजघ्वनौ हेमच॰। करणेल्युट्। सम्मार्जन्याम् (झां टा)। स्त्री ङीप् अमरः।
