मार्त्तण्डः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्त्तण्डः, पुं, (मृतश्चासौ अण्डश्चेति । मृताण्डे भवतीति । मृताण्ड + “तत्र भवः ।” ४ । ३ । ५३ । इति अण् ।) सूर्य्यः । (तन्निरुक्तिश्च । यथा, -- “अनिष्पन्नेषु गात्रेषु पुत्त्रं दृष्ट्वा पिताब्रवीत् । आर्त्तस्त्वं भव माण्डेति मार्त्तण्डस्तेन स स्मृतः ॥” यथा, मार्कण्डेये । ७७ । १ । “मार्त्तण्डस्य रवेर्भार्य्या तनया विश्वकर्म्मणः । संज्ञा नाम महाभाग ! तस्यां भानुरजीजनत् ॥” अर्कवृक्षः । इत्यमरः ॥ शूकरः । इति मेदिनी । ते, ३५ ॥ मार्त्तण्डोत्पत्तिर्यथा, -- मारितञ्च यतः प्रोक्तमेतदण्डं त्वयादितिम् ॥ तस्मान्मुने ! सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥ सूर्य्याधिकारञ्च विभुर्जगत्येष करिष्यति । हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् ॥ देवा निशम्येति वचो गगनात् समुपागतम् । प्रहर्षमतुलं याता दानवाश्च हतौजसः ॥ ततो युद्धाय दैतेयानाजुहाव शतक्रतुः । सह देवैर्मुदायुक्तो दानवाश्च तमाययुः ॥ तेषां युद्धमभूद्घोरं देवानामसुरैः सह । शस्त्रास्त्रदीप्तिसन्दीप्तसमस्तभुवनान्तरम् ॥ तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः । तेजस्रा दह्यमानास्तु भस्मीभूता महासुराः ॥ ततः प्रहर्षमतुलं प्रापुः सर्व्वे दिवौकसः ॥ तुष्टवुस्तेजसां योनिं मार्त्तण्डमदितिन्तथा ॥ स्वाधिकारं ततः प्रापुर्यज्ञभागांश्च पूर्ब्बवत् । भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत् ॥ कदम्बपुष्पवद्भास्वानधश्चोर्द्ध्वञ्च रश्मिभिः । वृत्तोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥” इति मार्कण्डेयपुराणे सूर्य्यमाहात्म्ये मार्त्त- ण्डोत्पत्तिनामाध्यायः ॥
