सामग्री पर जाएँ

मार्द्दवम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मार्द्दवम्, क्ली, (मृदोर्भाव इति । मृदु + “पृथ्वादिभ्य इमणिज् वा ।” ५ । १ । १२२ । इत्यत्र । “वावचन- मणादेः समावेशार्थम् ।” इति काशिको- क्तेरण् ।) परदुःखप्रदर्शनात् पीडाबुद्धिः । मृदुता । यथा, -- “मार्द्दवं कोमलस्यापि संस्पर्शासहतोच्यते । उत्तमं मध्यमं प्रोक्तं कनिष्ठञ्चेति तत्त्रिधा ॥” उत्तमं यथा, -- “अभिनवमालिकामियं साशय- नववंशिराधिका विशिष्ये । न कुसुमपटलं दरापि जग्लौ तदनुभवात्तनुरेव सव्रणासीत् ॥” मध्यमं यथा, -- “चित्रं धनिष्ठे तनुवाससोऽपि चीनस्य पीनस्तनि ! सङ्गमेन । लिप्तेन तल्लोहितचन्दनेन मूर्त्तिर्दिदूना सखि ! लोहितासीत् ॥ कनिष्ठं यथा, -- रससुधाकरे आमोदमामोदन- मादधानं निलीननीलालकचञ्चरीकम् । क्षणेन पद्मामुखपद्ममासीत् त्विषा रवेः कोमलयापि ताम्रम् ॥” इत्युज्ज्वलनीलमणिः ॥ (अकाठिन्यम् । यथा, रघौ । ८ । ४३ । “विललाप सवाष्पगद्गदं सहजामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिषु ॥”)

"https://sa.wiktionary.org/w/index.php?title=मार्द्दवम्&oldid=157836" इत्यस्माद् प्रतिप्राप्तम्