मालकौश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालकौशः, पुं, (मालस्य हरेः कोशात् कण्ठा- न्निर्गत इति । अण् ।) रागविशेषः । तस्य नामान्तरं कौशिकः । स च हनूमन्मते षड्- रागाणां मध्ये द्बितीयरागः । हरस्य हरेर्वा कण्ठान्निर्गतः । अस्य जातिः सम्पूर्णा तत्र सप्त- स्वरक्रमः ष ऋ ग म प ध नि । अस्य गृहं षड्जस्वरः । शरदृतौ रात्रिशेषे गानसमयः । रागमालायामस्य स्वरूपम् । पाटलवर्णपुरुषः । नीलपरिच्छदः । यष्टिहस्तः । यौवनमदमत्तः स्त्रीभिः सह हास्यकौतुकान्वितः शत्रुमस्तक- माल्यगलोऽथवा बृहन्मुक्तामाल्यगलः । अस्य रागिण्यः पञ्च यथा । टोडी १ गौरी २ गुण- करी ३ खम्भावती ४ कोकभा ५ । अस्याष्टौ पुत्त्रा यथा । मारुः १ मेवाडः २ वडहंसः ३ प्रबलः ४ चन्द्रकः ५ नन्दः ६ भ्रमरः ७ खुखरः ८ अत्र मिष्टाङ्गोऽपि पाठः । भरतमते तस्य रागिण्यः पञ्च यथा । गौरी १ दयावती २ देवदाली ३ खम्भावती ४ कोकभा ५ । तन्मते अष्टौ पुत्त्रा यथा । गान्धारः १ शुद्धः २ मकरः ३ त्रिञ्छनः ४ सहानः ५ शक्तबल्लभः ६ माली- गौरः ७ कामोदः ८ । अष्टपुत्त्रभार्य्या यथा । धनाश्रीः १ मालश्रीः २ जयतश्रीः ३ सुघोरायी ४ दुर्गा ५ गान्धारी ६ भीमपलाशी ७ कामोदी ८ । इति सङ्गीतशास्त्रम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालकौशः [mālakauśḥ], N. of a Rāga or musical mode.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालकौश/ माल--कौश m. (in music) a partic. रागSam2gi1t.