मालती
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालती, स्त्री, (मलते शोभां धारयतीति । मल् + “भृदृशियजीत्यादि ।” उणा० ३ । ११० । इत्यत्र “बाहुलकात् मलतेरतच् । गौरादिनिपातना- दुपधाया दीर्घत्वम् ।” इत्युज्ज्वलदक्तोक्तेः अतच् उपधाया दीर्घत्वम् ङीष् च । मां लक्ष्मीं लातीति मालो विष्णुः तं अततीति । अच् । इत्यमरटीकायां भरतः ॥) स्वनामख्यात- पुष्पलता । तत्पर्य्यायः । सुमना २ जातिः ३ । इत्यमरः ॥ सुमनाः ४ जाती ५ । इति भरतः ॥ (यथा, शिशुपालवधे । ११ । १७ । “ज्वलयति मदनाग्निं मालतीनां रजोभिः ।”) अस्या गुणाः । कफपित्तमुखरोगव्रणक्रिमिकुष्ठ- नाशित्वम् । इति राजबल्लभः ॥ तस्या उत्- पत्तिर्यथा, -- आद्याशक्तिरुवाच । ‘अहमेतत्त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः । गौरी लक्ष्मीः स्वधा चेति रजःसत्त्वतमोगुणैः ॥ तत्र गत्वा तथा कार्य्यं विधास्यन्ते च ताः सुराः ॥ नारद उवाच । शृण्वतामिति तां वाचमन्तर्द्ध्वानभगान्महः । देवानां विस्मयोत्फुल्लनेत्राणाञ्च तदा नृप ! ॥ ततः सर्व्वेऽपि ते देवा गत्वा तद्वाक्यचोदिताः । गौरीं लक्ष्मीं स्वधाञ्चैव प्रणेमुर्भक्तितलराः ॥ तास्तथा तान् सुरान् दृष्ट्वा प्रणतान् भक्तवत्- सलाः । बीजानि प्रददुस्तेभ्यो वाक्यानि जगदुस्तथा ॥ देव्य ऊचुः । इमानि देवा बीजानि विष्णुर्यत्रावतिष्ठति । निर्व्वपस्व ततः कार्य्यं भवतां सिद्धिमेष्यति ॥ नारद उवाच । ततः प्रहृष्टाः सुरसिद्धसंघाः प्रगृह्य बीजानि विचिक्षिपुश्च । विन्दारिकाभूमितले स यत्र विष्णुः सदा तिष्ठति सौख्यवृत्तिः नारद उवाच । क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् । धात्री च मालती चैव तुलसी च नृपोत्तम ! ॥ धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी रजःसत्त्वतमोगुणाः ॥” इति पाद्मे उत्तरखण्डे १४९ । १५० अध्यायौ ॥ * ॥ युवती । काचमाली । विशल्या । ज्योत्स्ना । निशा । नदीविशेषः । इति हेमचन्द्रः । ४ । २१३ । (सुवर्च्चला मालतीत्यर्थः । तत्पर्य्यायो यथा, -- “चणको मालती क्षौमी रुद्रपत्नी सुवर्च्चला ॥” पुष्पार्थे पर्य्यायो यथा, -- “मालती सुमना जातिः ।” इत्युभे वैद्यकरत्न- मालायाम् ॥ तथाच । जातिर्जाती च सुमना मालती राजपुत्त्रिका । चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालती स्त्री।
मालती
समानार्थक:सुमनस्,मालती,जाति
2।4।72।2।2
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालती¦ f. (-ती)
1. Great-flowered jasmine, (Jasminum grandiflorum.)
2. A bud, a blossom.
3. A young woman.
4. Moon-light.
5. Night.
6. A particular river.
7. A flower, (Bignonia suave olens.)
8. A shrub, (Echites caryophyllata.)
9. A species of the Jagati4 metre. E. मा LAKSHMI4, लत a Sautra root, to shake, affs. अच् and ङीप्; or मल् to hold, अतच् aff.; or माल VISHN4U, अत् to go, (to be presented to,) affs. अण् and ङीष् |
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालती f. Jasminum Grandiflorum (plant and blossom ; it bears fragrant white flowers which open towards evening) Ka1v. Var. Sus3r.
मालती f. Bignonia Suaveolens W.
मालती f. Echites Caryophyllata L.
मालती f. another species of plant(= विशल्या) L.
मालती f. a bud , blossom L.
मालती f. a maid , virgin L.
मालती f. moonlight or night L.
मालती f. N. of various metres Col.
मालती f. of a river VarBr2S.
मालती f. of a woman (the heroine of the drama मालती-माधवSee. )
मालती f. of कल्याण-मल्ल's comm. on मेघ-दूत.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--(also मालवी) the queen of अश्वपति and mother of सावित्री, the पतिव्रत; फलकम्:F1: M. २०८. १०.फलकम्:/F her sons are called the मालवस् of pure क्षत्रिय stock. फलकम्:F2: Ib. २१३. १६.फलकम्:/F