मालम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालम्, क्ली, (माति मानहेतुर्भवतीति । मा + “ऋज्रेन्द्राग्रवज्रेत्यादि ।” उणा० २ । २८ । इति रण् । पृषोदरादित्वाद्रस्य लत्वम् ।) क्षेत्रम् । इति मेदिनी ॥ ले, ४५ । (यथा, मेघदूते । १६ । “सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥”) कपटम् । वनम् । इति हेमचन्द्रः ॥ (हरि- तालम् । यथा, -- “हरितालं तालमालं मालं शैलूषभूषणम् । पिञ्जकं रोमहरणं तालकं पातमित्यपि ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य- धिकारे ।)
