मालवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालवः, पुं, (मालः उन्नतक्षेत्रमस्त्यत्र । माल + “केशाद्वोऽन्यतरस्याम् ।” ५ । २ । १०९ । इत्यत्र “अन्येभ्योऽपि दृश्यन्ते ।” इति काशिकोक्तेः वप्रत्ययः ।) अवन्तिदेशः । इति हेमचन्द्रः । ४ । २२ ॥ मालओया इति हिन्दीभाषा ॥ (यथा, मात्स्ये । ११३ । ४४ ॥ “अङ्गा वङ्गा मद्गुरका अन्तर्गिरि बहि- र्गिरी । सुह्मोत्तराः प्रविजया मार्गवागेयमालवाः ॥” मालवेषु जात इत्यण् । तद्देशजे, त्रि ॥) रागविशेषः । स च षड्रागाणां मध्ये प्रथम- रागः । मतान्तरे भैरवरागोऽयम् । यथा, -- “आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागस्तस्य पश्चाद्वै वसन्तस्तदनन्तरम् ॥ हिल्लोलश्चाथ कर्णाट एते रागाः प्रकी- र्त्तिताः ॥ तस्य स्वरूपं यथा, -- “नितम्बिनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डलवान् प्रमत्तः । सङ्गीतशालां प्रविशन् प्रदोषे मालाधरो मालवरागराजः ॥” इति सङ्गीतदामोदरः ॥ (मालव्यां तन्नामिकायां सावित्रीमातरि जातः इत्यण् । अश्वपतेराज्ञो मालव्यां जातः पुत्त्र गणः । यथा, महाभारते । ३ । २९६ । ५८ । “पितुश्च ते पुत्त्रशतं भविता तव मातरि । मालव्यां मालवा नाम शाश्वताः पुत्त्रपौत्त्रिणः ॥ भ्रातरस्ते भविष्यन्ति क्ष्यत्रियास्त्रिदशोपमाः ॥” स्त्री, नदीविशेषः । यथा, महाभारते । १३ । १६५ । २५ । “हिरण्वती वितस्ता च तथा प्लक्षवती नदी । वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालवः [mālavḥ], 1 N. of a country, the modern Mālvā in central India.
N. of a Rāga or musical mode.-वाः (pl.) The people of Mālvā. -Comp. -अधीशः, -इन्द्रः, -नृपतिः a king of Mālvā. -गौडः (in music) a particular Rāga. -देशः, -विषयः the country of Mālvā.
