मालाकन्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालाकन्दः, पुं, (माला गण्डमाला नाशकः कन्दः । शाकपार्थिववत् मध्यपदलोपी ।) मूलविशेषः । तत्पर्य्यायः । आविलकन्दः २ त्रिशिखिदला ३ ग्रन्थिदला ४ पादिकन्दः ५ कन्दलता ६ । अस्य गुणाः । सुतीक्ष्णत्वम् । गण्डमालानाशित्वम् । दीपनत्वम् । गुल्महारित्वम् । वातश्लेष्मापकर्ष- कारित्वञ्च । इति राजनिर्घण्टः ॥
