मालाकारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालाकारः, पुं, (मालां करोतीति । कृ + अण् ।) वर्णसङ्करजातिविशेषः । मालिंकः । माली इति ख्यातः । तत्पर्य्यायः । मालिकः २ । इत्य- मरः । २ । १० । ५ । मालाकरः ३ पुष्पा- जीवी ४ वनार्च्चकः ५ पुष्पलावः ६ । इति जटा- धरः ॥ पुष्पलावकः ७ । इति शब्दरत्नावली ॥ स तु शूद्रायां विश्वकर्म्मणो जातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥ अपि च । “तैलिक्यां कर्म्मकाराच्च मालाकारस्य सम्भवः ॥ इति पराशरपद्धतिः ॥ तद्गृहस्थितपुष्पस्य पर्य्युषितदोषाभावो यथा, “न पर्य्युषितदोषोऽस्ति तुलसीविल्वचम्पके । जलजे बकुलेऽगस्त्ये मालाकारगृहेषु च ॥” इति मेरुतन्त्रे ५ प्रकाशः ॥ (यथा, बृहत्संहितायाम् । १० । ९ । “हस्ते नापितचाक्रिक- चौरभिषक्सूचिकद्वीपग्राहाः । बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥” स्त्रियां ङीप् । यथा तत्रैव । ७८ । ९ । “भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका । मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः ।”)
