मालातृणकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालातृणकम्, क्ली, (मालातृण । स्वार्थे कन् ।) भूस्तृणम् । इत्यमरः । २ । ४ । १६७ ॥ द्वे गन्धखड इति ख्याते । मालारूपं तृणं मालातृणं स्वार्थे कः । भुवस्तृणं भूलग्नत्वात् भूस्तृणं मनीषादित्वात् सागमः । मालातृणकभूस्तृणे । इति क्लीवे । इति सुभूत्यादयः ॥ मालातृणकभूस्तृणाविति पुंसि पठन्ति केचित् ॥ स्वामी तु । छत्राति- च्छत्रादिभूस्तृणान्तं पर्य्यायमाह यथा, -- “भूस्तृणो रौहिषो भूतिर्भूमिकोऽथ कुटुम्बकः । मालातृणश्च पालघ्नश्छत्रातिच्छत्रकस्तथेति ॥” रामकर्पूरं बहुपत्रकाण्डं कर्पूरसुगन्धि । इदन्तु शतपुष्पिकावदुत्कटगन्धं भूलग्नञ्च भवती- त्यनयोर्भेदः । इति तट्टीकायां भरतः ॥ (तथास्य पर्य्यायः । “गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुकप्रियम् । भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
