मालादूर्व्वा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालादूर्व्वा, स्त्री, (माला इव ग्रन्थियुक्ता दूर्वा ।) दूर्व्वाविशेषः । गाठिया दूर्व्वा इति भाषा । तत्पर्य्यायः । वल्लिदूर्व्वा २ अलिदूर्व्वा ३ माला- ग्रन्थिः ४ ग्रन्थिला ५ ग्रन्थिदूर्व्वा ६ शूलग्रन्थिः ७ वेल्लनी ८ ग्रन्थिमूला ९ रोहत्पर्व्वा १० पर्व्व- वल्ली ११ शिवाख्या १२ । अस्या गुणाः । मुमधुरत्वम् । तिक्तत्वम् । शिशिरत्वम् । पित्त- दोषप्रशमनत्वम् । कफवान्तितृषापहत्वञ्च । इति राजनिर्घण्टः ॥
