मालूरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालूरः, पुं, (मां परेषां वृक्षान्तराणां श्रियं प्रभावं लुनातीति । लूञ् + बाहुलकात् रः ।) विल्ववृक्षः । इत्यमरः । २ । ४ । ३२ ॥ (यथा, नैषधे । १ । ९४ । “स वारनारीकुचसञ्चितोपमं ददर्श मालूरफलं पचेलिमम् ।”) कपित्थवृक्षः । इति राजनिर्घण्टः ॥ (विस्त्व- वृक्षार्थे पर्य्यायो यथा, -- विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी । पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥” इति वैद्यकरत्नमालायाम् ॥ “विल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे च ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मालूरः [mālūrḥ], 1 The Bilva tree.
The Kapittha tree. -रम् A Bilva fruit; ददर्श मालूरफले पचेलिमम् N.1.94.
