सामग्री पर जाएँ

माषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माषः, पुं, (माषस्य फलम् । माष + अण् । “लुप् च ।” ४ । ३ । १६६ । इत्यस्य “फलपाकशुषा- मुपसंख्यानम् ।” इति काशिकोक्तेरणो लुप् । यद्बा, मस + घञ् पृषोदरादित्वात् साधुः ।) व्रीहिभेदः । माषकलाइ इति उरिद् इति च भाषा । तत्पर्य्यायः । कुरुविन्दः २ धान्य- वीरः ३ वृषाकरः ४ मांसलः ५ बलाढ्यः ६ पित्र्यः ७ पितृभोजनः ८ । अस्य गुणाः । स्निग्धत्वम् । बहुमलकरत्वम् । शोषणत्वम् । श्लेष्मकारित्वम् । अनुष्णवीर्य्यत्वम् । झटिति- रक्तपित्तप्रकोपणत्वम् । वातहरत्वम् । गुरु- त्वम् । बलकरत्वम् । रोचकत्वम् । स्वादुत्वम् । श्रमसुखवतां नराणां नित्यं सेवनीयत्वम् । इति राजनिर्घण्टः ॥ अपि च । “माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिला- पहः । उष्णः सन्तर्पणो बल्यः शुक्रलो वृंहणः परः ॥ भिन्नमूत्रमलस्तन्यमेदपित्तकफप्रदः । गुदकीलार्द्दितश्वासपंक्तिशूलानि नाशयेत् ॥” इति । कफपित्तकरा माषाः । इति च भावप्रकाशः ॥ अन्यच्च । “माषो बहुमलो वृष्यः स्निग्धोष्णो मघुरो गुरुः । वातनुद्वृंहणो बल्यो मेदोमांसकफप्रदः ॥” इति राजवल्लभः ॥ माषसूपेन मूलकभक्षणं निषिद्धं यथा, -- “मूलकं माषसूपेन मधुना च न भक्षयेत् ॥” इति च राजवल्लभः ॥ चतुर्द्दश्यां रविवारे च माषभक्षणनिषेधो यथा, चिररोगी च माषके । इति । “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद्यो रवेर्वारे सप्तजन्मन्यपुत्त्रकः ॥” इति च तिथ्यादितत्त्वम् ॥ * ॥ परिमाणविशेषः । माषा इति भाषा । तत पर्य्यायः । माषकः २ मासः ३ । इत्यमर- भरतौ ॥ हेमः ४ धानकः ५ । स च मागध- माने सुश्रुतमते ५ गुञ्जापरिमाणम् । चरकमते ६ । ८ गुञ्जापरिमाणम् । कालिङ्गमाने सुश्रुत- मते ५ । ७ । ८ गुञ्जापरिमाणम् । इति भाव- प्रकाशः ॥ वैद्यकान्तरे १० गुञ्जापरिमाणम् । यथा, -- “गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्ठयम् ।” इति वैद्यकपरिभाषा ॥ (माषार्थे यथा, -- “द्बात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम् । चरकार्द्धपलोन्मानं चरके दशरक्तिकैः । माषैः पलं चतुःषष्ट्या यद्भवेत्तत्तथेरितम् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ।) ज्योतिःस्मृतिमते १२ गुञ्जापरिमाणम् । यथा, “पलं तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥” इति तिथ्यादितत्त्वधृतवचनेन पलं अष्टरत्तिका- धिकमाषद्वयाधिकतोलकत्रयम् । एतेन माषक- परिमाणं द्वादशरत्तिकं भवति ॥ * ॥ मूर्खः । त्वग्दोषभेदः । इति मेदिनी षे, २१ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माषः [māṣḥ], [मष् संज्ञायां कर्तरि घञ्]

A bean; (the sing. being used for the plant and the pl. for the fruit or seed); तिलेभ्यः प्रति यच्छति माषान् Sk.; मुद्राभावे माषाद्याः प्रति- निधित्वमर्हन्ति J. N. V.

A particular weight of gold; पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश Ms.8.134; माषो विंशतिमो भागः पणस्य परिकीर्तितः or गुञ्जाभिरष्टभिर्माषः

A fool, blockhead.

A kind of pulse.

A cutaneous eruption resembling beans. -Comp. -अदः, -आदः a tortoise.-आज्यम् a dish of beans cooked with ghee. -आशः a horse. -ऊन a. less by a Māṣa. -पर्णी Glycine Debilis (Mar. रानउडीद). -पिष्टम् a kind of sauce prepared from the flour of Māṣa (Mar. डांगर ?) Gaṇeśa P.49.47-51.-पेशम् ind. as if beans were ground; Mk. -योनिः a thin cake (पर्पट) made of Māṣa flour; Gīrvāṇa. -वर्धकः a goldsmith.

"https://sa.wiktionary.org/w/index.php?title=माषः&oldid=350822" इत्यस्माद् प्रतिप्राप्तम्