माषपर्णी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माषपर्णी, स्त्री, (माषस्य पर्णमिव पर्णं यस्याः । ततो ङीष् ।) वनमाषः । माषाणी इति भाषा । तत्पर्य्यायः । हयपुच्छी २ काम्बोजी ३ महासहा ४ । इत्यमरः । २ । ४ । १३८ ॥ सिंह- पुच्छी ५ ऋषिप्रोक्ता ६ कृष्णवृन्ता ७ पाण्डु- लोमशपर्णिनी ८ । इति रत्नमाला ॥ आर्द्र- माषा ९ मांसमाषा १० मङ्गल्या ११ हय- पुच्छिका १२ हंसमाषा १३ अश्वपुच्छा १४ पाण्डुरा १५ माषपर्णिका १६ कल्याणी १७ वज्रमूली १८ शालिपर्णी १९ विसारिणी २० आत्मोद्भवा २१ बहुफला २२ स्वयम्भूः २३ सुलभा २४ घना २५ सिंहविन्ना २६ विशा- चिका २७ । अस्या गुणाः । तिक्तरसत्वम् । वृष्यत्वम् । दाहज्वरापहत्वम् । शुक्रवृद्धिकारि- त्वम् । बल्यत्वम् । शीतलत्वम् । पुष्टिवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च भावप्रकाशे । “माषपर्णी सूर्य्यपर्णी काम्बोजी हयपुच्छिका । पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ॥ माषपर्णी हिमा तिक्ता रूक्षा शुक्रबलाशकृत् । मधुरा ग्राहिणी शोषा वातपित्तज्वरास्रजित् ॥”
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माषपर्णी स्त्री।
माषपर्णी
समानार्थक:हयपुच्छी,काम्बोजी,माषपर्णी,महासहा
2।4।138।2।3
पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती। हयपुच्छी तु काम्बोजी माषपर्णी महासहा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माषपर्णी¦ स्त्री माषस्येव पर्णान्यस्याः ङीप्। वनमाषे अमरः
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माषपर्णी/ माष--पर्णी f. Glycine Debilis Var. Sus3r.