मासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासः, पुं, (मस् परिमाणे + भावे घञ् ।) माष- परिमाणम् । इत्यमरटीकायां भरतः । माषा इति भाषा ॥ (मस्यते परिमीयते असावने- नवेति मस् + घञ् ।) शुक्लकृष्णपक्षद्बयात्मकः कालः । स च पौषमाघादिद्बादशसंज्ञकः । इत्यमरः । १ । ४ । १२ ॥ माश्चन्द्रस्तस्यायं मासः ष्णः । चान्द्रमासस्येयं व्युत्पत्तिः । सौरादिषु तु मस्यते परिमीयतेऽनेनासौ वा मासः । मसिर्य ई परिमाणे घञ् । माः सान्तोऽपि । मास्तु मासोऽपि दृश्यते । इति हड्डः । इति भरतः ॥ * ॥ स्मृतिमतेऽपि पौषादिद्वादशसंज्ञकः । यथा, -- “चक्रवत् परिवर्त्तेत सूर्य्यः कालवशाद्यतः । अतः सांवत्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम् ॥ मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि । यतस्तत्र विधानेन स मासः परिकीर्त्तितः ॥” इति लघुहारीतः ॥ कार्त्तिकादिद्बादशसंज्ञकोऽपि । यथा, -- “अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यव- स्थया ॥” स च चैत्रादिद्बादशसंज्ञकश्च । यथा व्यक्तं ब्रह्मपुराणम् । “चैत्रे मासि जगद्ब्रह्मा ससर्ज्ज प्रथमेऽहनि । शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति ॥ प्रवर्त्तयामास तदा कालस्य गणनामपि । ग्रहान्राशीनृतून् मासान् वत्सरान् वत्सराधि- पान् । इत्यनेन मासर्त्तुवत्सराणां चान्द्रत्वमुक्तम् । ब्रह्मसिद्धान्तेऽपि । “चैत्रसितादेरुदयाद्भानोर्व्वर्षर्त्तुमासयुगकल्पाः । सृष्ट्यादौ लङ्कायामिह प्रवृत्ता दिनैर्व्वत्स ॥” चैत्रसितादेश्चैत्रशुक्लप्रतिपदस्तामारभ्येत्यर्थः ॥ अपि च । “मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे । भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः ॥” चान्द्रसावनसौरनाक्षत्रभेदेन स च चतुर्व्विधः । शुक्लप्रतिपदादिदर्शान्तश्चान्द्रः । तत्र चान्द्रो- ऽपि द्विविधः । शुक्लप्रतिपदादिदर्शान्तो मुख्यः । कृष्णप्रतिपदादिपौर्णमास्यन्तो गौणः । यत्- किञ्चित्त्रिंशत्तिथ्यात्मकश्चेति द्विविधो गौणः । त्रिंशदहोरात्रात्मकः सावनः । आदित्यैक- राशिभोगावच्छिन्नः सौरः । सप्तविंशतिनक्षत्रा- वच्छिन्नस्त्रिंशन्नाक्षत्रदिनात्मकश्च नाक्षत्रः । तथा च ब्रह्मसिद्धान्ते । “चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः । एकराशौ रविर्यावत् कालं मासः संभास्करः ॥ पञ्चाहानि त्र्यहाणि स्युर्द्दोलोत्सवो विधीयते ॥ दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः । दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥ निक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते । सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा ॥ तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् । प्रत्यहं मां महाभागे ! तस्य पुण्यं न गण्यते ॥ दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् । वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम् ॥ वैशाखे च तृतीयायां जलमध्ये विशेषतः । अथवा मण्डपे कुर्य्यात् मण्डले वा बृहद्ध्वजे ॥ सुगन्धचन्दनेनाङ्गसुपुष्टाङ्गो दिने दिने । यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः ॥ चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना । जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा । एतैर्गन्धयुतैश्चापि हरेरङ्गानि लेपयेत् ॥ घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केशरैर्योज्यं हरिचन्दनमुच्यते ॥ अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः ॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ सुगन्धिमिश्रितैस्तोयैः स्नापयित्वा जगद्गुरुम् । अथवा पुष्पमध्ये च स्थापयेज्जगदीश्वरम् ॥ बृन्दावनं तत्र कृत्वा उपस्कृतफलानि च । विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥ नारिकेलफलं नीरं कोषञ्चोद्धृत्य दापयेत् । कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते ॥ यथा पचेत्तथा दद्याद्यथाशक्ति नियोगतः । दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत् ॥ पाचितं पिष्टकं धातुरष्टादश घृतेन च । तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत् ॥ यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् । दत्त्वा नैवेद्यवस्त्रादीनाददीत कथञ्चन । त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ॥ इति ते कथितं किञ्चित् समासेन महेश्वरि ! । गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति ! ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासः [māsḥ] सम् [sam], सम् [मा एव अण्]

A month, (it may be चान्द्र, सौर, सावन, नाक्षत्र or बार्हस्पत्य); न मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि Bk.8.95.

The moon (Ved.).

The number 'twelve'. -Comp. -अधिपः, -अधिपतिः the planet presiding over a month. -अनुमासिक a. monthly; पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् Ms.3.122.-अन्तः the day of new moon. -अवधिक a. lasting for or occurring in a month. -आहार a. eating only once a month.

उपवासिनी a woman who fasts for a whole month.

a procuress, a lascivious or lewd woman (ironically.). -ऋक्षम् the constellation after which a month (like चैत्र, वैशाख) is named; माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्वा वा मासार्क्षाणि व्युतान्यपि ॥ Bhāg.7.14.22. -कालिक a. monthly, lasting for a month. -चारिक a. practising (any thing) for a month. -जात a. a month old, born a month ago. -ज्ञः a kind of gallinule. -देय a. to be paid in a month. -पाक a. maturing in a month. -प्रमितः the new-moon.-प्रवेशः the beginning of a month. -भुक्तिः (the sun's) monthly course. -मानः a year. -संचयिक a. having provisions for a month; सद्यः प्रक्षालको वा स्यान्माससंचयिको$पि वा Ms.6.18.

"https://sa.wiktionary.org/w/index.php?title=मासः&oldid=351005" इत्यस्माद् प्रतिप्राप्तम्