मासिकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मासिकम्, क्ली, (मासे भवम् । मास + “कालाट् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) प्रेतस्य संवत्सराभ्यन्तरे प्रतिमासीयमृतसजातीयतिथि कर्त्तव्यश्राद्धम् । प्रतिमासकर्त्तव्यकृष्णपक्षनिमित्तक श्राद्धम् । तत्पर्य्यायः । अन्वाहार्य्यम् २ । इत्य- मरः । ३ । ७ । ३१ ॥ मासि भवं मासिकं पार्व्वणश्राद्धं तत्र अन्वाहार्य्यं वर्त्तते । पक्षशेषे अमावास्यायां देयत्वात् । अनु पश्चादाह्नियते अन्वाहार्य्यं हसृय्वासोरिति घ्यण् स्वार्थेके अन्वा- हार्य्यकञ्च । अकृतसपिण्डीकरणस्य वत्सराभ्य- न्तरे प्रतिमासं यत् श्राद्धं तत्रान्वाहार्य्यमिति केचित् । इत्यमरटीकायां भरतः ॥ तयोः प्रमाणम् । “षाण्मासिकाब्दिके श्राद्धे स्यातां पूर्ब्बेद्युरेव ते । मासिकानि स्वकीये तु दिवसे द्वादशापि च ॥” इति पैठीनसिः ॥ ‘पितॄणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः । तच्चामिषेण कर्त्तव्यं प्रशस्तेन प्रयत्नतः ॥’ इति मनुः । ३ । १२३ ॥ * ॥ मासिककरणस्य व्यवस्था यथा । पीठच्छत्रो- पानहरहितानि इहलोकं परित्यज्य इत्यादि सर्व्वः सुर्गन्ध इत्यादि श्रिया देव्या इत्यादि वन- स्पतिरस इत्यादिमन्त्रचतुष्टयरहितानि च आद्यै- कोद्दिष्टवत् मृताहे मृताहे द्वादश मासिकानि कार्य्याणि । एकादशमासाभ्यन्तरे मलमासपाते त्रयोदशमासिकानि । षष्ठमासाभ्यन्तरे मल- मासपातेऽपि षष्ठमासिकपूर्ब्बतिथावेव प्रथम- षाण्मासिकम् । तथा त्रयोदशमासिकस्य पूर्ब्ब- तिथौ द्वितीयषाण्मासिकम् । एवं षाण्मासिकी- ल्लखे प्रथमषाण्मासिकद्बितीयषाण्मासिकत्वेनो- ल्लेखः । एषां मध्ये यत् पतितं तत् कृष्णैकादश्यां अमावस्यायां मासिकान्तरतिथौ वा कृत्वा प्रकृतं कर्त्तव्यम् । अशौचपतितञ्चेत्तदशौचान्ते कर्त्तव्यम् । एकादशाहादिश्राद्धानि कतिचित् कृत्वा यदि मृतस्तदा शेषाण्यन्येनाधिकारिणा समाप्यानि ॥ * ॥ अथ मासिकैकोद्दिष्टश्राद्ध- प्रयोगः । पूर्ब्बदिने निरामिषैकभक्तः परदिने मन्त्रेण षडृतून्नमस्कुर्य्यात् । तत ओ~ सुसुप्रोक्षित- मस्तु इति ब्राह्मणाग्रभूमिमासिञ्चेत् । ओ~ शिवा आपः सन्त इति ब्राह्मणे जल दद्यात । ओ~ सन्त्विति प्रतिवचनम । ओ~ सौमनस्यमस्त्विति पुष्पं ओ~ अस्त्विति प्रतिवचनम । ओ~ अक्षत- ञ्चारिष्टञ्चास्तु इति यवान् दद्यात् । ओ~ अस्त्वि- त्युत्तरम् । ततस्तिलाज्यमधुयुक्तं जलं गृहीत्वा ओ~ अमुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणो दत्त- मिदमन्नपानादिकमुपतिष्ठताम् । ओ~ उपतिष्ठ- तामिति प्रतिवचनम् । ओ~ अघोरः प्रेतोऽस्तु इति वदेत् । ओ~ अस्त्विति प्रतिवचनम् । ओ~ गोत्रं नो वर्द्धतामिति वदेत् । ओ~ वर्द्धतामिति प्रतिवचनम् । ततः पिण्डोपरि सपवित्रकुशा- नास्तीर्य्य ओ~ ऊर्ज्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधास्थ तर्पयत मे प्रेतमित्य- नेन वारिधारया सिञ्चेत् । ततः ओ~ अद्येत्यादि अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्म्मणः कृतै- तत्प्रथममासिकैकोद्दिष्टश्राद्धकर्म्मणः प्रतिष्ठार्थं दक्षिणामिदं रजतं तन्मूल्यं वा विष्णुदैवतं यथा नामगोत्राय ब्राह्मणायाहं ददानीति दद्यात् । ततो दक्षिणां दिशं पश्यन् वरं याचेत । नात्र पात्रमालभ्य जपेत् । नाशिषः प्रार्थयेदिति प्रचेतोवचनादाशिषं न प्रार्थयेत् । ततः ओ~ देव- ताभ्य इति त्रिः पटेत् । ओ~ अभिरम्यतामिति विसर्ज्जनम् । ओ~अभिरतोऽस्मीति प्रतिवचनम् । ओ~ आमावाजेति प्रदक्षिणवारिधारया वेष्टयेत् पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा क्षिपेत् । श्राद्धीयद्रव्यं ब्राह्मणाय दद्यात् जले वा क्षिपेत् । ततो वामदेव्यं गायेत् अच्छिद्रावधारणं दीपाच्छादनं विष्णुस्मरणञ्च कुर्य्यात् । एवं प्रकारेण द्वितीयादिमासिकं कर्त्त- व्यम् । इति स्मार्त्तभट्टाचार्य्यकृतश्राद्धप्रयोग- तत्त्वम् ॥ * ॥ अन्यत् श्राद्धशब्दे द्रष्टव्यम् ॥
