माहेन्द्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
माहेन्द्रः, पुं, (महेन्द्रस्यायम् । महेन्द्र + अण् ।) शुभदण्डविशेषः । रव्यादिसप्तवारेषु वायुवरुण- यममाहेन्द्राणामेकैकदण्डा भवन्ति । तत्र वरुण- माहेन्द्रयोर्द्दण्डौ शुभौ । वायुयमयोर्द्दण्डावशुभौ । यथा, “ख्यातं वा व यमा सूर्य्ये मा वा व य कला निधौ । व य मा वा कुजे ज्ञेया मा वा व य सुधां शुजे ॥ गुरौ वा व य मा चैव मा वा व य तथा भृगौ । सूर्य्यपुत्त्रे य मा वा व घटीयुग्मं शुभाशुभम् ॥ माहेन्द्रे विजयो नित्यं वारुणे च धनागमः । वायौ च भ्रमते नित्यं यमेऽपि मरणं ध्रुवम् ॥”) इति सारसंग्रहः ॥ (माहेन्द्रकायपुरुषस्य लक्षणं यथा, -- “माहात्म्यं शौर्य्यमाज्ञा च सततं शास्तबुद्धिता । भृत्यानां भरणञ्चापि माहेन्द्रं कायलक्षणम् ॥” इति सुश्रुते शारीरस्थाने चतुर्थऽध्याये ॥ महेन्द्रो देवतास्येति । महेन्द्र + “महेन्द्राद्- घाणौ च ।” ४ । २ । २९ । इति अण् । महेन्द्रदैवत्ये, त्रि । यथा, भट्टिकाव्ये । १५ । ९३ । “अविभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे । तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम् ॥”) महेन्द्रसम्बन्धिनि च । (यथा, रघौ । १२ । ८६ । “मातलिस्तस्य माहेन्द्रं ह्यामुमोच तनुच्छदम् ॥”)
