सामग्री पर जाएँ

माहेश्वरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माहेश्वरी, स्त्री, (महेश्वरस्ययम् । महेश्वर + अण् । ङीष् ।) यवतिक्ता । इति राजनिर्घण्टः । दुर्गा ॥ (यथा, महाभारते । १४ । ४३ । १४ । “भगदेवानुयातायां सर्व्वासां वामलोचना । माहेश्वरी महादेवी प्रीच्यते पार्व्वती हि सा ॥”) मातृ-भेदः । इति शब्दरत्नावली ॥ (यथा, मन्त्रकोषे । ६ । ओ~ ह्रीं नमो भगवति माहे- श्वरि अन्नपूर्णे स्वाहा ।) विष्णुः । यथा, -- कन्या उचुः ॥ “कस्त्वं विभ्राजसे कान्त्या केयं वा नवविप्रभा । कोन्वयं भाति वपुषा पङ्कजायतलोचनः ॥ निशम्य तासां वचनं वृषेन्द्रवरवाहनः । व्याजहार महायोगी भूताधिपतिरव्ययः ॥ अयं नारायणो गौरी जगन्माता सनातनः । विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ॥ न मे विदुः परं तत्त्वं देवाद्या न महर्षयः । एकोऽयं देवदेवात्मा भवानी विष्णुरेव च ॥ अहं हि निष्क्रियः शान्तः केवलो नित्यविग्रहः । मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥ एष धाता विधाता च कारणं कार्य्यमेव च । कर्त्ता कारयिता विष्णुर्भक्तिमुक्तिफलप्रदः ॥ भोक्ता पुमानप्रमेयः संहर्त्ता कालरूपधृक् । स्रष्टा धाता वासुदेवो विश्वात्मा विश्वतोमुखः ॥ कूटस्थो ह्यवरो व्यापी योगी नारायणः स्वयम् । तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ॥ एषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । शान्ता सत्या सदानन्दा परं पदमिति शुतिः ॥ अस्याः सर्व्वमिदं जातमत्रैव लयमेष्यति । एषैव सर्व्वभूतानां गतीनामुत्तमा गतिः ॥” इति कौर्म्मे १४ अध्यायः ॥ (पीठस्थानभेदः । इति देवीभागवते । ७ । ३० । ७२ । महेश्वरेण कृतम् । महेश्वर + अण् । क्ली । उपपुराणविशेषः । यथा, देवीभागवते । १ । ३ । १६ । “माहेश्वरं भागवतं वाशिष्ठञ्च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥” महेश्वरसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । १०९ । ७१ । “ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः । त्रिधा यस्य स्वरूपन्तु भानोर्भास्वान् प्रसीदतु ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माहेश्वरी स्त्री।

शक्तिदेवता

समानार्थक:ब्राह्मी,माहेश्वरी,कौमारी,वैष्णवी,वाराही,इन्द्राणी,चामुण्डा

1।1।35।3।2

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

जन्य : शिवः

 : चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माहेश्वरी¦ f. (-री)
1. A name of DURGA
4.
2. One of the divine mothers or energies of the gods, the Sakti4 of S4IVA. E. महेश्वर S4IVA, अण् and ङीष् affs.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

माहेश्वरी f. See. below

माहेश्वरी f. the Consort or Energy of शिव(one of the seven divine मातृs , also = दुर्गा) MBh. (See. IW. 522 )

माहेश्वरी f. N. of a river S3atr.

माहेश्वरी f. a species of climbing plant L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a शक्ति and a mother goddess; फलकम्:F1:  Br. IV. १९. 7; ३६. ५८; ४४. १११.फलकम्:/F Images after the manner of माहेश्वर. फलकम्:F2:  M. १७९. 9; २६१. २५; २८६. १०.फलकम्:/F
(II)--created out of दक्षिणाग्नि for the use of the काशि King's son to avenge his father's death at the hands of कृष्ण; unable to bear the सुदर्शन of कृष्ण she fled to काशी. Vi. V. ३४. ३९. [page२-703+ ३२]
"https://sa.wiktionary.org/w/index.php?title=माहेश्वरी&oldid=435327" इत्यस्माद् प्रतिप्राप्तम्